← All Shlokas
Taittirīya Upaniṣad · 2.2
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीँ श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नँ हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नँ हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम्। अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥

annādvai prajāḥ prajāyante | yāḥ kāśca pr̥thivīm̐ śritāḥ | atho annenaiva jīvanti | athainadapi yantyantatḥ | annm̐ hi bhūtānāṃ jyeṣṭham | tasmāt sarvauṣadhamucyate | sarvṃ vai te'nnamāpnuvanti | ye'nnṃ brahmopāsate | annm̐ hi bhūtānāṃ jyeṣṭham | tasmāt sarvauṣadhamucyate | annād bhūtāni jāyante | jātānyannena vardhante | adyate'tti ca bhūtāni | tasmādannṃ taducyata iti | tasmādvā etasmādannarasamayāt | anyo'ntara ātmā prāṇamayḥ | tenaiṣa pūrṇḥ | sa vā eṣa puruṣavidha eva | tasya puruṣavidhatām| anvayṃ puruṣavidhḥ | tasya prāṇa eva śirḥ | vyāno dakṣiṇḥ pakṣḥ | apāna uttarḥ pakṣḥ | ākāśa ātmā | pr̥thivī pucchṃ pratiṣṭhā | tadapyeṣa śloko bhavati ||

“From food are creatures born, by food they live, into food they dissolve at the end; food is the eldest of beings, the cure-all. Who worships food as Brahman obtains all food. Within the food-made self lies the breath-made self, person-shaped, with breath as head and the regions as its limbs.”

More from this source

View all →
Major Upaniṣads · 1.1ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भ…All this world, whatsoever moves on earth, is indwelt by the Lord. Enjoy through…Taittirīya Upaniṣad · 1.1ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृ…The peace-chant: may Mitra, Varuṇa, Aryaman, Indra, Bṛhaspati and Viṣṇu grant us…Major Upaniṣads · 1.2कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेत…Doing deeds here, one should wish to live a hundred years. For thee there is no …Taittirīya Upaniṣad · 1.2ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम स…'We shall expound phonetics: sound, accent, measure, force, articulation, and co…Major Upaniṣads · 1.3असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिग…Sunless are those worlds, covered in blind darkness; to them after death go all …Taittirīya Upaniṣad · 1.3सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्य…'May glory and Vedic lustre come to us both.' Then the lore of combination (saṃh…