← All Shlokas
Taittirīya Upaniṣad · 2.6
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदँ सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥

asanneva sa bhavati | asadbrahmeti veda cet | asti brahmeti cedveda | santamenṃ tato viduriti | tasyaiṣa eva śārīra ātmā | yḥ pūrvasya | athāto'nupraśnāḥ | utāvidvānamuṃ lokṃ pretya | kaścana gacchatī3 | āho vidvānamuṃ lokṃ pretya | kaścitsamaśnutā3 u | so'kāmayata | bahu syāṃ prajāyeyeti | sa tapo'tapyata | sa tapastaptvā | idm̐ sarvamasr̥jata | yadidṃ kiñca | tatsr̥ṣṭvā | tadevānuprāviśat | tadanupraviśya | sacca tyaccābhavat | niruktṃ cāniruktṃ ca | nilayanṃ cānilayanṃ ca | vijñānṃ cāvijñānṃ ca | satyṃ cānr̥tṃ ca satyamabhavat | yadidṃ kiñca | tatsatyamityācakṣate | tadapyeṣa śloko bhavati ||

“Who knows Brahman as non-being becomes non-being; who knows it as being, him the wise know as being. Then come the questions: does the ignorant reach yonder world, does the knower attain? He desired, 'may I become many'; practised fervour, created all this, entered it, and became the formed and formless, the defined and undefined, knowledge and non-knowledge, truth and untruth.”

More from this source

View all →
Major Upaniṣads · 1.1ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भ…All this world, whatsoever moves on earth, is indwelt by the Lord. Enjoy through…Taittirīya Upaniṣad · 1.1ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृ…The peace-chant: may Mitra, Varuṇa, Aryaman, Indra, Bṛhaspati and Viṣṇu grant us…Major Upaniṣads · 1.2कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेत…Doing deeds here, one should wish to live a hundred years. For thee there is no …Taittirīya Upaniṣad · 1.2ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम स…'We shall expound phonetics: sound, accent, measure, force, articulation, and co…Major Upaniṣads · 1.3असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिग…Sunless are those worlds, covered in blind darkness; to them after death go all …Taittirīya Upaniṣad · 1.3सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्य…'May glory and Vedic lustre come to us both.' Then the lore of combination (saṃh…